Hitherto Unknown Secrets !

Posts tagged ‘क्लेश निवारण’

ShriHayagreeva stotram !

ॐ ॥ हयग्रीव दयासिंधो बन्धो सज्जनसंततेः । त्रयीग्रीव नमश्चान्द्रसान्द्रकान्तिसमांशुमन् ॥

स्वामिन्सघृण काप्यम्बा किं बालकममुञ्चत । पालय श्रीपते तस्मादस्मान्सेवकान् ॥

ईश तेऽनीश जीव त्वं तत्त्वं वक्ति न युक्तिमान् । अश्वो भूत्वाऽपि यो मर्त्योऽमर्त्यो वाश्वो जगत्त्रये ॥

हयास्य पश्य भृत्यं ते हन्तेमे भूतराक्षसाः । जिघांसंत्यात्तचक्रस्त्वं सत्वं विस्तार्य रक्षमाम् ॥

यमोऽपि ते भटस्त्वं च पञ्चरूपो भवान्प्रभुः । आज्ञापयतु राजाऽसौ दासायं मयि मोचयेत् ॥

अनन्तगुणसंपूर्ण धूर्न काऽप्यत्र मे प्रिया । तव पादाब्जसेवैव जैवबन्धविमोिचनी ॥

सुरम्य सुखचिद्रूप धूपदीपार्चनादिकम् । तव प्रियं सदा कु्र्यां पुर्यां वा पर्वतेऽपि वा ॥

विद्यां देहि  विवेकं च शं च सर्वत्र देहि मे । श्रद्धां देहि तथा पाहि मा हिनस्ति यथा परः ॥

ससुरासुरगंधर्वपूर्वसर्वजगत्पते । शरणं भव वाणीशवीशभोगीशसेवित ॥

हयाननं हर क्लेशं लेशं दर्शय नः प्रभो । भवन्मुखाम्बुजे  नृत्यच्छुत्यन्ताख्यवधूहृदाम् ॥

वादिराजाख्ययतिना सादरं रचितां स्तुतिम् । श्रीधरांघ्रियुगे भक्तीं साधयान् सर्वदा पठेत्॥

॥इति श्रीमद्वादिराजपुज्यचरणविरचितं हयग्रीवस्तोत्रं समाप्तम् ॥

श्रीकृष्णार्पणमस्तु

Tag Cloud

%d bloggers like this: