Hitherto Unknown Secrets !

Posts tagged ‘remedies for planets’

PeeDhaparihaar stotras for Planets – Bramhand purana !

गृहाणामादिरादित्योऽ लोकरक्षणकारकः । विषमस्थानसम्भूताम् पीडाम् हरतु मे रवी

रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसम्भूताम् पीडाम् हरतु मे विधुः

भूमिपुत्रो महातेजा जगताम् भयकृतसदा । वृष्टिकृदवृष्टिहर्ता च पीडाम् हरतु मे कुजः

उत्पातरूपी जगताम् चंद्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान पीडाम् हरतु मे बुधः

देवमंत्री विशालाक्षः  सदा लोकहिते रतः । अनेक शिष्य संपूर्णः पीडाम् हरतु मे गुरुः

दैत्यमंत्री गुरुस्तेषाम् प्रणवश्च महाद्युतिः । प्रभुस्तारागृहाणाम् च पीडाम् हरतु मे भृगुः

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । दीर्घचारः प्रसंन्नात्मा पीडाम् हरतु मे शनिः

महाशिर्षो महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडाम् हरतु मे तमः

अनेकरुप वर्णैश्च शतशोऽथ सहस्रशः । उत्पातरुपी जगताम् पीडाम् हरतु मे शिखि

॥इति नवगृहपीडापरिहारस्तोत्रम् संपूर्णम् ॥

कृष्णार्पणमस्तु

Tag Cloud

%d bloggers like this: